Sukta 8.60
नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे । स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥
न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जम्भा॑सो॒ यद्वि॒तिष्ठ॑से । स त्वं नो॑ होत॒: सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥
náhi te agne vṛṣabha prati-dhṛ́ṣe jámbhāso yád vi-tíṣṭhase | sá tváṃ no hotaḥ su-hútaṃ havíṣ kṛdhi vaṃsvā́ no vā́ryā purú ||
None can withstand thy jaws, O Agni the strong Bull, when thou standest forth in thy might. Therefore, O our Hotṛ, make our offering well-offered; win for us many desirable riches of being.
न॒हि । ते॒ । अ॒ग्ने॒ । वृ॒ष॒भ॒ । प्र॒ति॒ऽधृषे॑ । जम्भा॑सः । यत् । वि॒ऽतिष्ठ॑से । सः । त्वम् । नः॒ । हो॒त॒रिति॑ । सुऽहु॑तम् । ह॒विः । कृ॒धि॒ । वंस्व॑ । नः॒ । वार्या॑ । पु॒रु ॥नहि । ते । अग्ने । वृषभ । प्रतिधृषे । जम्भासः । यत् । वितिष्ठसे । सः । त्वम् । नः । होतरिति । सुहुतम् । हविः । कृधि । वंस्व । नः । वार्या । पुरु ॥nahi | te | agne | vṛṣabha | prati-dhṛṣe | jambhāsaḥ | yat | vi-tiṣṭhase | saḥ | tvam | naḥ | hotariti | su-hutam | haviḥ | kṛdhi | vaṃsva | naḥ | vāryā | puru