Sukta 8.60
येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः । स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥
येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तर॑न्तो अ॒र्य आ॒दिश॑: । स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विद॑: ॥
yéna vaṃsāma pṛ́tanāsu śárdhatas táranto aryá ā́diśaḥ | sá tváṃ no vardha práyasā śacīvaso jínvā dhíyo vasu-vídaḥ ||
By whom we may win in the battles, pressing through the onrushing hosts and the noble directions. Do thou then increase us by thy active force, O master of effective power; quicken our thoughts so that they become finders of the true riches.
येन॑ । वंसा॑म । पृत॑नासु । शर्ध॑तः । तर॑न्तः । अ॒र्यः । आ॒ऽदिशः॑ । सः । त्वम् । नः॒ । व॒र्ध॒ । प्रऽय॑सा । श॒ची॒व॒सो॒ इति॑ शचीऽवसो । जिन्व॑ । धियः॑ । व॒सु॒ऽविदः॑ ॥येन । वंसाम । पृतनासु । शर्धतः । तरन्तः । अर्यः । आदिशः । सः । त्वम् । नः । वर्ध । प्रयसा । शचीवसो इति शचीवसो । जिन्व । धियः । वसुविदः ॥yena | vaṃsāma | pṛtanāsu | śardhataḥ | tarantaḥ | aryaḥ | ādiśaḥ | saḥ | tvam | naḥ | vardha | pra-yasā | śacīvaso itiśacī-vaso | jinva | dhiyaḥ | vasu-vidaḥ