Sukta 8.6
इमा अभि प्र णोनुमो विपामग्रेषु धीतयः । अग्नेः शोचिर्न दिद्युतः ॥
इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तय॑: । अ॒ग्नेः शो॒चिर्न दि॒द्युत॑: ॥
imā́ abhi prá nón̄umo vipā́m ágreṣu dhītáyaḥ | agnéḥ śocír ná didyútaḥ ||
These inspirations we press forward and set in motion in the very forefront of the seers; they shine out like the flame of Agni—like a lightning of inner illumination.
इ॒माः । अ॒भि । प्र । नो॒नु॒मः॒ । वि॒पाम् । अग्रे॑षु । धी॒तयः॑ । अ॒ग्नेः । शो॒चिः । न । दि॒द्युतः॑ ॥इमाः । अभि । प्र । नोनुमः । विपाम् । अग्रेषु । धीतयः । अग्नेः । शोचिः । न । दिद्युतः ॥imāḥ | abhi | pra | nonumaḥ | vipām | agreṣu | dhītayaḥ | agneḥ | śociḥ | na | didyutaḥ