Sukta 8.6
महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव । स्तोमैर्वत्सस्य वावृधे ॥
म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥
mahā́ṃ índro yá ójasā parjányo vṛṣṭímāṃ iva | stómair vatsásya vāvṛdhe ||
Great is Indra by his force, like Parjanya heavy with rain; by our hymns he increases, as the growing life within is nourished—so the power of illumination swells in the seeker.
म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व । स्तोमैः॑ । व॒त्सस्य॑ । व॒वृ॒धे॒ ॥महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । वृष्टिमान्इव । स्तोमैः । वत्सस्य । ववृधे ॥mahān | indraḥ | yaḥ | ojasā | parjanyaḥ | vṛṣṭimān-iva | stomaiḥ | vatsasya | vavṛdhe