Sukta 8.59
इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे । यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥
इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ । यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥
índrāvaruṇā yád ṛṣíbhyo manīṣā́ṃ vā́co matíṃ śrutám adattam ágre | yā́ni sthā́nāny asṛ́janta dhī́rā yajñáṃ tanvā́nās tápasā́bhy àpaśyam ||
O Indra and Varuṇa, when in the beginning you gave to the seers the inspired thought, the mind of the word, the hearing that receives—then the steadfast sages created the stations; and as they extended the sacrifice, by inner heat they beheld (its truth).
इन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ । यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥इन्द्रावरुणा । यत् । ऋषिभ्यः । मनीषाम् । वाचः । मतिम् । श्रुतम् । अदत्तम् । अग्रे । यानि । स्थानानि । असृजन्त । धीराः । यज्ञम् । तन्वानाः । तपसा । अभि । अपश्यम् ॥indrāvaruṇā | yat | ṛṣi-bhyaḥ | manīṣām | vācaḥ | matim | śrutam | adattam | agre | yāni | sthānāni | asṛjanta | dhīrāḥ | yajñam | tanvānāḥ | tapasā | abhi | apaśyam