Sukta 8.59
इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् । प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥
इन्द्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् । प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयु॑: ॥
índrāvaruṇā saumanasám ádṛptaṃ rāyás póṣaṃ yájamāneṣu dhattam | prajā́ṃ púṣṭiṃ bhū́tim asmā́su dhattaṃ dīrghāyutvā́ya prá tirataṃ na ā́yuḥ ||
O Indra and Varuṇa, place in the sacrificers a glad and unfallen harmony, and the increase of spiritual plenitude. Set in us progeny, growth, and becoming; and for long life carry forward our life-force to its farther fulfilment.
इन्द्रा॑वरुणा । सौ॒म॒न॒सम् । अदृ॑प्तम् । रा॒यः । पोष॑म् । यज॑मानेषु । ध॒त्त॒म् । प्र॒ऽजाम् । पु॒ष्टिम् । भू॒ति॒म् । अ॒स्मासु॑ । ध॒त्त॒म् । दी॒र्घा॒यु॒ऽत्वाय॑ । प्र । ति॒र॒त॒म् । नः॒ । आयुः॑ ॥इन्द्रावरुणा । सौमनसम् । अदृप्तम् । रायः । पोषम् । यजमानेषु । धत्तम् । प्रजाम् । पुष्टिम् । भूतिम् । अस्मासु । धत्तम् । दीर्घायुत्वाय । प्र । तिरतम् । नः । आयुः ॥indrāvaruṇā | saumanasam | adṛptam | rāyaḥ | poṣam | yajamāneṣu | dhattam | pra-jām | puṣṭim | bhūtim | asmāsu | dhattam | dīrghāyu-tvāya | pra | tiratam | naḥ | āyuḥ