Sukta 8.59
अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् । अस्मान्त्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥
अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑: सा॒प्तेभि॑रवतं शुभस्पती ॥
ávocāma mahaté sáubhagāya satyáṃ tvéṣābhyāṃ mahimā́nam indriyám | asmā́nt sv indrāvaruṇā ghṛtáścutaḥ tríbhiḥ sāptébhiḥ avataṃ śúbhaspatī ||
We have spoken the truth for the great felicity: to you two, the impetuous powers, belongs the mighty greatness of effective force. Do you, O Indra and Varuṇa, dripping with clarified light, protect us by the three and by the seven (ordered energies), O lords of luminous bliss.
अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥अवोचाम । महते । सौभगाय । सत्यम् । त्वेषाभ्याम् । महिमानम् । इन्द्रियम् । अस्मान् । सु । इन्द्रावरुणा । घृतश्चुतः । त्रिभिः । साप्तेभिः । अवतम् । शुभः । पती इति ॥avocāma | mahate | saubhagāya | satyam | tveṣābhyām | mahimānam | indriyam | asmān | su | indrāvaruṇā | ghṛta-ścutaḥ | tri-bhiḥ | sāptebhiḥ | avatam | śubhaḥ | patī iti