Sukta 8.59
सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः । ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥
स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणी॑: । ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥
satyáṃ tád indrāvaruṇā kṛśásya vāṃ mádhva ū́rmiṃ duhate saptá vā́ṇīḥ | tā́bhir dāśvā́ṃsam avataṃ śúbhaspatī yó vām ádabdho abhí pā́ti cíttibhiḥ ||
This indeed is the Truth, O Indra and Varuṇa: for your lean (austere) seeker the seven voices milk out the wave of sweetness. By those powers protect the giver, O lords of luminous bliss—him who, undeceived, guards you with his awakenings of understanding.
स॒त्यम् । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । कृ॒शस्य॑ । वा॒म् । मध्वः॑ । ऊ॒र्मिम् । दु॒ह॒ते॒ । स॒प्त । वाणीः॑ । ताभिः॑ । दा॒श्वांस॑म् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । यः । वा॒म् । अद॑ब्धः । अ॒भि । पाति॑ । चित्ति॑ऽभिः ॥सत्यम् । तत् । इन्द्रावरुणा । कृशस्य । वाम् । मध्वः । ऊर्मिम् । दुहते । सप्त । वाणीः । ताभिः । दाश्वांसम् । अवतम् । शुभः । पती इति । यः । वाम् । अदब्धः । अभि । पाति । चित्तिभिः ॥satyam | tat | indrāvaruṇā | kṛśasya | vām | madhvaḥ | ūrmim | duhate | sapta | vāṇīḥ | tābhiḥ | dāśvāṃsam | avatam | śubhaḥ | patī iti | yaḥ | vām | adabdhaḥ | abhi | pāti | citti-bhiḥ