Sukta 8.59
निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत । या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥
नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त । या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययो॒: शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥
niṣṣídhvarīr óṣadhīr ā́pa ā́stām índrāvaruṇā mahimā́nām ā́śata | yā́ sisrátū rájasaḥ pāré ádhvano yáyoḥ śátrur nákir ā́devo óhate ||
The powers that set free (the obstructed currents)—the healing herbs and the Waters—stood firm; and Indra and Varuṇa attained their vast greatness. They moved beyond the mid-worlds, to the farther shore of the path; against them no hostile force, no undivine power, can prevail.
निः॒ऽसिध्व॑रीः । ओष॑धीः । आपः॑ । आ॒स्ता॒म् । इन्द्रा॑वरुणा । म॒हि॒मान॑म् । आ॒श॒त॒ । या । सिस्र॑तुः । रज॑सः । पा॒रे । अध्व॑नः । ययोः॑ । शत्रुः॑ । नकिः॑ । अदे॑वः । ओह॑ते ॥निःसिध्वरीः । ओषधीः । आपः । आस्ताम् । इन्द्रावरुणा । महिमानम् । आशत । या । सिस्रतुः । रजसः । पारे । अध्वनः । ययोः । शत्रुः । नकिः । अदेवः । ओहते ॥niḥ-sidhvarīḥ | oṣadhīḥ | āpaḥ | āstām | indrāvaruṇā | mahimānam | āśata | yā | sisratuḥ | rajasaḥ | pāre | adhvanaḥ | yayoḥ | śatruḥ | nakiḥ | adevaḥ | ohate