Sukta 8.59
इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥
इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥
imā́ni vāṃ bhāga-dhéyāni sisrate indrā́varuṇā prá mahé sutéṣu vām | yajñé-yajñe ha sávanā bhuraṇyátho yát sunvaté yajámānāya śíkṣathaḥ ||
These destined shares flow toward you two, O Indra and Varuṇa, for your greatness in the pressed Soma. In sacrifice after sacrifice you hasten to the pressings; and you instruct and foster the sacrificer who presses, so he may grow into the right offering.
इ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् । य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥इमानि । वाम् । भागधेयानि । सिस्रते । इन्द्रावरुणा । प्र । महे । सुतेषु । वाम् । यज्ञेयज्ञे । ह । सवना । भुरण्यथः । यत् । सुन्वते । यजमानाय । शिक्षथः ॥imāni | vām | bhāga-dheyāni | sisrate | indrāvaruṇā | pra | mahe | suteṣu | vām | yajñe--yajñe | ha | savanā | bhuraṇyathaḥ | yat | sunvate | yajamānāya | śikṣathaḥ