Sukta 8.58
एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥
एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒: सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः । एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥
éka evā́gnir bahudhā́ samíddha ékaḥ sū́ryo víśvam ánu prá-bhūtaḥ | ekaívóṣāḥ sárvam idáṃ ví bhāti ékaṃ vā́ idáṃ ví babhūva sárvam ||
One indeed is Agni, though kindled in many ways; one is the Sun who becomes manifest through all. One is Dawn who illumines all this; one indeed has all this become in its varied forms.
एकः॑ । ए॒व । अ॒ग्निः । ब॒हु॒धा । सम्ऽइ॑द्धः । एकः॑ । सूर्यः॑ । विश्व॑म् । अनु॑ । प्रऽभू॑तः । एका॑ । ए॒व । उ॒षाः । सर्व॑म् । इ॒दम् । वि । भा॒ति॒ । एक॑म् । वै॒ । इ॒दम् । वि । ब॒भू॒व॒ । सर्व॑म् ॥एकः । एव । अग्निः । बहुधा । सम्इद्धः । एकः । सूर्यः । विश्वम् । अनु । प्रभूतः । एका । एव । उषाः । सर्वम् । इदम् । वि । भाति । एकम् । वै । इदम् । वि । बभूव । सर्वम् ॥ekaḥ | eva | agniḥ | bahudhā | sam-iddhaḥ | ekaḥ | sūryaḥ | viśvam | anu | pra-bhūtaḥ | ekā | eva | uṣāḥ | sarvam | idam | vi | bhāti | ekam | vai | idam | vi | babhūva | sarvam