Sukta 8.58
ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् । चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥
ज्योति॑ष्मन्तं केतु॒मन्तं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारम् । चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥
jyótiṣmantaṃ ketu-mántaṃ tri-cákraṃ su-kháṃ ráthaṃ su-sádaṃ bhū́ri-vāram | citrā́-maghā yásya yóge ’dhí-jajñe táṃ vāṃ huvè áti riktáṃ píbadhyai ||
The chariot full of light, full of discernible signs, three-wheeled, easy in its movement, well-seated, wide in its protecting cover—O you of wondrous gifts—he who is born in the yoking of that chariot, him I call for you two, overflowing, for the drinking of Soma.
ज्योति॑ष्मन्तम् । के॒तु॒ऽमन्त॑म् । त्रि॒ऽच॒क्रम् । सु॒ऽखम् । रथ॑म् । सु॒ऽसद॑म् । भूरि॑ऽवारम् । चि॒त्रऽम॑घा । यस्य॑ । योगे॑ । अ॒धि॒ऽज॒ज्ञे॒ । तम् । वा॒म् । हु॒वे । अति॑ । रिक्त॑म् । पिब॑ध्यै ॥ज्योतिष्मन्तम् । केतुमन्तम् । त्रिचक्रम् । सुखम् । रथम् । सुसदम् । भूरिवारम् । चित्रमघा । यस्य । योगे । अधिजज्ञे । तम् । वाम् । हुवे । अति । रिक्तम् । पिबध्यै ॥jyotiṣmantam | ketu-mantam | tri-cakram | su-kham | ratham | su-sadam | bhūri-vāram | citra-maghā | yasya | yoge | adhi-jajñe | tam | vām | huve | ati | riktam | pibadhyai