Sukta 8.58
यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति । यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥
यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्त॒: सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति । यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥
yám ṛtvíjo bahudhā́ kálpayantaḥ sá-cetaso yajñám imáṃ váhanti | yó anūcānó brā́hmaṇo yuktá āsīt kā́ svít tátra yajámānasya saṃvít ||
This sacrifice which the priests, arranging it in many ways, bear forward with awakened mind—what was the true awareness there of the sacrificer, when the learned Brahman was harnessed to the work?
यम् । ऋ॒त्विजः॑ । ब॒हु॒धा । क॒ल्पय॑न्तः । सऽचे॑तसः । य॒ज्ञम् । इ॒मम् । वह॑न्ति । यः । अ॒नू॒चा॒नः । ब्रा॒ह्म॒णः । यु॒क्तः । आ॒सी॒त् । का । स्वि॒त् । तत्र॑ । यज॑मानस्य । स॒म्ऽवित् ॥यम् । ऋत्विजः । बहुधा । कल्पयन्तः । सचेतसः । यज्ञम् । इमम् । वहन्ति । यः । अनूचानः । ब्राह्मणः । युक्तः । आसीत् । का । स्वित् । तत्र । यजमानस्य । सम्वित् ॥yam | ṛtvijaḥ | bahudhā | kalpayantaḥ | sa-cetasaḥ | yajñam | imam | vahanti | yaḥ | anūcānaḥ | brāhmaṇaḥ | yuktaḥ | āsīt | kā | svit | tatra | yajamānasya | sam-vit