Sukta 8.57
युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥
यु॒वां दे॒वास्त्रय॑ एकाद॒शास॑: स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् । अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥
yuvā́ṃ devā́s tráya ekādaśā́saḥ satyā́ḥ satyásya dadṛśe purástāt | asmā́kaṃ yajñáṃ sávanaṃ juṣāṇā́ pā́taṃ sómam aśvinā dī́dyagnī ||
You two are the gods—three and eleven—true, seen in front of the Truth itself. Accepting our sacrifice and this Soma-pressing, drink the Soma, O Aśvins, you who blaze with fire.
यु॒वाम् । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । स॒त्याः । स॒त्यस्य॑ । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒स्माक॑म् । य॒ज्ञम् । सव॑नम् । जु॒षा॒णा । पा॒तम् । सोम॑म् । अ॒श्वि॒ना॒ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥युवाम् । देवाः । त्रयः । एकादशासः । सत्याः । सत्यस्य । ददृशे । पुरस्तात् । अस्माकम् । यज्ञम् । सवनम् । जुषाणा । पातम् । सोमम् । अश्विना । दीद्यग्नी इति दीदिअग्नी ॥yuvām | devāḥ | trayaḥ | ekādaśāsaḥ | satyāḥ | satyasya | dadṛśe | purastāt | asmākam | yajñam | savanam | juṣāṇā | pātam | somam | aśvinā | dīdyagnī itidīdi-agnī