Sukta 8.57
युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥
यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा । आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥
yuváṃ devā kratúnā pūrvyéṇa yuktā́ rathéna taviṣáṃ yajatrā | ā́gacchataṃ nāsatyā śácībhiḥ idáṃ tṛtī́yaṃ sávanaṃ pibāthaḥ ||
O you two divine Ones, with your ancient will of effective knowledge, yoked to your chariot of force, come here, O Nāsatyas, by your powers of accomplishment; drink this third pressing of Soma.
यु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ताः । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ । आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥युवम् । देवा । क्रतुना । पूर्व्येण । युक्ताः । रथेन । तविषम् । यजत्रा । आ । अगच्छतम् । नासत्या । शचीभिः । इदम् । तृतीयम् । सवनम् । पिबाथः ॥yuvam | devā | kratunā | pūrvyeṇa | yuktāḥ | rathena | taviṣam | yajatrā | ā | agacchatam | nāsatyā | śacībhiḥ | idam | tṛtīyam | savanam | pibāthaḥ