Sukta 8.57
पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥
प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः । स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥
panā́yyaṃ tád aśvinā kṛtáṃ vāṃ vṛṣabhó divó rájasaḥ pṛthivyā́ḥ | sahásraṃ śáṃsā uta yé gáviṣṭau sárvāṃ ít tā́n úpa yātā píbadhyai ||
Admirable is that work you two have done, O Aśvins—bull-like in the heaven’s wideness and on the earth. A thousand praises, and those that seek the Rays: come near to all of them, indeed, for the drinking of Soma.
प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भः । दि॒वः । रज॑सः । पृ॒थि॒व्याः । स॒हस्र॑म् । शंसाः॑ । उ॒त । ये । गवि॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥पनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभः । दिवः । रजसः । पृथिव्याः । सहस्रम् । शंसाः । उत । ये । गविष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥panāyyam | tat | aśvinā | kṛtam | vām | vṛṣabhaḥ | divaḥ | rajasaḥ | pṛthivyāḥ | sahasram | śaṃsāḥ | uta | ye | gaviṣṭau | sarvān | it | tān | upa | yāta | pibadhyai