Sukta 8.53
यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते । वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥
यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते । व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥
yás te sādhiṣṭhó’vase té syāma bháreṣu te | vayáṃ hotrā́bhir utá devá-hūtibhiḥ sasa-vā́ṃso manāmahe ||
May we be yours for that most effective help of yours, in all the battles you carry. We, pressing forward with our offerings of the word and with the call that brings the gods, aspire and consent to you in our mind.
यः । ते॒ । साधि॑ष्ठः । अव॑से । ते । स्या॒म॒ । भरे॑षु । ते॒ । व॒यम् । होत्रा॑भिः । उ॒त । दे॒वहू॑तिऽभिः । स॒स॒ऽवांसः॑ । म॒ना॒म॒हे॒ ॥यः । ते । साधिष्ठः । अवसे । ते । स्याम । भरेषु । ते । वयम् । होत्राभिः । उत । देवहूतिभिः । ससवांसः । मनामहे ॥yaḥ | te | sādhiṣṭhaḥ | avase | te | syāma | bhareṣu | te | vayam | hotrābhiḥ | uta | devahūti-bhiḥ | sasa-vāṃsaḥ | manāmahe