Sukta 8.53
आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् । प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥
आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् । प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिन॒: क्रतुं॑ पुन॒त आ॑नु॒षक् ॥
āji-túraṃ sát-patiṃ viśvá-carṣaṇiṃ kṛdhí prajā́sv ā́-bhagam | prá sú tirā śácībhir yé ta ukthínaḥ krátum punatá ā́nuṣak ||
Make him for us the conquering force in the battle, the true lord and lord of all peoples, a giver of portion among our progeny. Lead us forward by your powers of effective action—those singers of your hymns who continually purify the will (kratu) within us.
आ॒जि॒ऽतुर॑म् । सत्ऽप॑तिम् । वि॒श्वऽच॑र्षणिम् । कृ॒धि । प्र॒ऽजासु॑ । आऽभ॑गम् । प्र । सु । ति॒र॒ । शची॑भिः॒ । ये । ते॒ । उ॒क्थिनः॑ । क्रतु॑म् । पु॒न॒ते । आ॒नु॒षक् ॥आजितुरम् । सत्पतिम् । विश्वचर्षणिम् । कृधि । प्रजासु । आभगम् । प्र । सु । तिर । शचीभिः । ये । ते । उक्थिनः । क्रतुम् । पुनते । आनुषक् ॥āji-turam | sat-patim | viśva-carṣaṇim | kṛdhi | pra-jāsu | ābhagam | pra | su | tira | śacībhiḥ | ye | te | ukthinaḥ | kratum | punate | ānuṣak