Sukta 8.53
अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः । त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम् ॥
अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभि॑: । त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्र॑॑ मथी॒नाम् ॥
aháṃ hí te harivo bráhma vāja-yúr ā́jiṃ yāmi sádotibhiḥ | tvā́m íd evá tám amé sám aśva-yúr gavyúr ágre mathīnā́m ||
For I, O Harivaḥ, with my soul’s utterance that seeks plenitude, enter the contest always with your help. You alone do I desire and join with—seeking the horse-force and the cow-light—at the front of the churnings (the inner pressings that bring out the Soma).
अ॒हम् । हि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । वा॒ज॒ऽयुः । आ॒जिम् । यामि॑ । सदा॑ । ऊ॒तिऽभिः॑ । त्वाम् । इत् । ए॒व । तम् । अमे॑ । सम् । अ॒श्व॒ऽयुः । ग॒व्युः । अग्रे॑ । म॒थी॒नाम् ॥अहम् । हि । ते । हरिवः । ब्रह्म । वाजयुः । आजिम् । यामि । सदा । ऊतिभिः । त्वाम् । इत् । एव । तम् । अमे । सम् । अश्वयुः । गव्युः । अग्रे । मथीनाम् ॥aham | hi | te | hari-vaḥ | brahma | vāja-yuḥ | ājim | yāmi | sadā | ūti-bhiḥ | tvām | it | eva | tam | ame | sam | aśva-yuḥ | gavyuḥ | agre | mathīnām