Sukta 8.53
आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः । ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥
आ नो॒ विश्वे॑षां॒ रसं॒ मध्व॑: सिञ्च॒न्त्वद्र॑यः । ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतीन्द॑वः ॥
ā́ no víśveṣāṃ rásaṃ mádhvaḥ siñcántv ádrayaḥ | yé parāváti sunvíre jáneṣv ā́ yé arvāvatī́ndavaḥ ||
Let the pressing-stones pour for us the essence of all sweetness. Whether the Soma-drops are pressed in the far distance among the peoples, or here in the nearer field, may they come to us as a single stream of delight and light.
आ । नः॒ । विश्वे॑षाम् । रस॑म् । मध्वः॑ । सि॒ञ्च॒न्तु॒ । अद्र॑यः । ये । प॒रा॒ऽवति॑ । सु॒न्वि॒रे । जने॑षु । आ । ये । अ॒र्वा॒ऽवति॑ । इन्द॑वः ॥आ । नः । विश्वेषाम् । रसम् । मध्वः । सिञ्चन्तु । अद्रयः । ये । परावति । सुन्विरे । जनेषु । आ । ये । अर्वावति । इन्दवः ॥ā | naḥ | viśveṣām | rasam | madhvaḥ | siñcantu | adrayaḥ | ye | parāvati | sunv ire | janeṣu | ā | ye | arvāvati | indavaḥ