Sukta 8.53
य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे । तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे । तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥
yá āyúṃ kútsam atithigváṃ árdayo vāvṛdhānó dívédive | táṃ tvā vayáṃ háryaśvaṃ śatákratuṃ vājayánto havāmahe ||
You who smote Ayu, Kutsa, and Atithigva, growing in power day by day— you, the wielder of tawny steeds, the hundred-powered, we invoke as we kindle the victorious force within us.
यः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे । तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥यः । आयुम् । कुत्सम् । अतिथिग्वम् । अर्दयः । ववृधानः । दिवेदिवे । तम् । त्वा । वयम् । हरिअश्वम् । शतक्रतुम् । वाजयन्तः । हवामहे ॥yaḥ | āyum | kutsam | atithi-gvam | ardayaḥ | vavṛdhānaḥ | dive--dive | tam | tvā | vayam | hari-aśvam | śata-kratum | vāja-yantaḥ | havāmahe