Sukta 8.53
उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥
उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् । पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥
upamáṃ tvā maghónāṃ jyéṣṭhaṃ ca vr̥ṣabhā́ṇām | pūrbhíttamaṃ maghavann indra govídam ī́śānaṃ rāyá īmahe ||
We seek you as the highest among the bounteous, the eldest among the strong-bull powers—most capable of breaking the fortified enclosures. O Indra, finder of the rays (cows), master of plenitude, we long to possess your fullness of being.
उ॒प॒ऽमम् । त्वा॒ । म॒घोना॑म् । ज्येष्ठ॑म् । च॒ । वृ॒ष॒भाणा॑म् । पु॒र्भित्ऽत॑मम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गो॒ऽविद॑म् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥उपमम् । त्वा । मघोनाम् । ज्येष्ठम् । च । वृषभाणाम् । पुर्भित्तमम् । मघवन् । इन्द्र । गोविदम् । ईशानम् । रायः । ईमहे ॥upa-mam | tvā | maghonām | jyeṣṭham | ca | vṛṣabhāṇām | purbhit-tamam | magha-van | indra | go--vidam | īśānam | rāyaḥ | īmahe