Sukta 8.51
यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् । नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥
यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् । नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥
yáthā manáu sā́ṃvaraṇau sómam indrā́pibaḥ sutám | nī́pā́tithau maghavan medhyā́tithau púṣṭi-gau śrúṣṭi-gau sácā ||
As once with Manu Sāṃvaraṇa you drank the pressed Soma, O Indra—so too, O bounteous one, with Nīpātithi, with Medhyātithi, companioning the powers of increase and of obedient hearing.
यथा॑ । मनौ॑ । साम्ऽव॑रणौ । सोम॑म् । इ॒न्द्र॒ । अपि॑बः । सु॒तम् । नीप॑ऽअतिथौ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथौ । पुष्टि॑ऽगौ । श्रुष्टि॑ऽगौ । सचा॑ ॥यथा । मनौ । साम्वरणौ । सोमम् । इन्द्र । अपिबः । सुतम् । नीपअतिथौ । मघवन् । मेध्यअतिथौ । पुष्टिगौ । श्रुष्टिगौ । सचा ॥yathā | manau | sām-varaṇau | somam | indra | apibaḥ | sutam | nīpa-atithau | magha-van | medhya-atithau | puṣṭi-gau | śruṣṭi-gau | sacā