Sukta 8.5
यो मे हिरण्यसंदृशो दश राज्ञो अमंहत । अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥
यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत । अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जना॑: ॥
yó me híraṇyasaṃdṛśo dáśa rājño ámaṃhata | adhás-padā íc caidyásya kṛṣṭáyaś carma-mnā́ abhíto jánāḥ ||
He who enlarged for me the golden-seeming powers of ten kings—so that even the peoples of Caidya, set low in their steps, stood encompassed by the law of protection: thus the divine increase establishes a guarded order around the seeker.
यः । मे॒ । हिर॑ण्यऽसन्दृशः । दश॑ । राज्ञः॒ । अमं॑हत । अ॒धः॒ऽप॒दाः । इत् । चै॒द्यस्य॑ । कृ॒ष्टयः॑ । च॒र्म॒ऽम्नाः । अ॒भितः॑ । जनाः॑ ॥यः । मे । हिरण्यसन्दृशः । दश । राज्ञः । अमंहत । अधःपदाः । इत् । चैद्यस्य । कृष्टयः । चर्मम्नाः । अभितः । जनाः ॥yaḥ | me | hiraṇya-sandṛśaḥ | daśa | rājñaḥ | amaṃhata | adhaḥ-padāḥ | it | caidyasya | kṛṣṭayaḥ | carma-mnāḥ | abhitaḥ | janāḥ