Sukta 8.5
दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् । वि भानुं विश्वधातनत् ॥
दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् । वि भा॒नुं वि॒श्वधा॑तनत् ॥
dūrā́d iheva yát satyá aruṇá-psur áśiśvitat | ví bhānúṃ viśvádhā atanat ||
From far away, as if here before us, the true one, the ruddy-flashing, has gleamed; she has spread her beam in every way.
दू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्शुः । अशि॑श्वितत् । वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥दूरात् । इहइव । यत् । सती । अरुणप्शुः । अशिश्वितत् । वि । भानुम् । विश्वधा । अतनत् ॥dūrāt | iha-iva | yat | satī | aruṇa-pśuḥ | aśiśvitat | vi | bhānum | viśvadhā | atanat