Sukta 8.48
त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः । यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥
त्वं हि न॑स्त॒न्व॑: सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षा॑: । यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्य॑: ॥
tvaṃ hí nas tanváḥ soma gopā́ gā́tre-gā́tre ní-sasatthā nṛ-cákṣāḥ | yát te vayáṃ prá-mināma vratā́ni sá no mṛḷa su-sákhā deva vásyaḥ ||
Thou indeed art the guardian of our being, O Soma; in each limb and in every part thou hast taken thy seat, O seer of men. If we have diminished thy laws of right working, then be gracious to us—O god, our good friend, most ready to give the best.
त्वम् । हि । नः॒ । त॒न्वः॑ । सो॒म॒ । गो॒पाः । गात्रे॑ऽगात्रे । नि॒ऽस॒सत्थ॑ । नृ॒ऽचक्षाः॑ । यत् । ते॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । सः । नः॒ । मृ॒ळ॒ । सु॒ऽस॒खा । दे॒व॒ । वस्यः॑ ॥त्वम् । हि । नः । तन्वः । सोम । गोपाः । गात्रेगात्रे । निससत्थ । नृचक्षाः । यत् । ते । वयम् । प्रमिनाम । व्रतानि । सः । नः । मृळ । सुसखा । देव । वस्यः ॥tvam | hi | naḥ | tanvaḥ | soma | gopāḥ | gātre--gātre | ni-sasattha | nṛ-cakṣāḥ | yat | te | vayam | pra-mināma | vratāni | saḥ | naḥ | mṛḷa | su-sakhā | deva | vasyaḥ