Sukta 8.48
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः । अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥
ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायु॑: ॥
ṛdūdáreṇa sákhya saceyá yó mā ná ríṣyed dhary-aśva pītáḥ | ayáṃ yáḥ sómo ny-àdhāyy asmẹ́ tásmā índraṃ prá-tiram emy ā́yuḥ ||
With the wide-bellied one I would enter into friendship—he who, when drunk, harms me not, O Indra of the tawny steeds. This Soma that has been set within us—by that I go forward to Indra, to the firm support of life.
ऋ॒दू॒दरे॑ण । सख्या॑ । स॒चे॒य॒ । यः । मा॒ । न । रिष्ये॑त् । ह॒रि॒ऽअ॒श्व॒ । पी॒तः । अ॒यम् । यः । सोमः॑ । नि । अधा॑यि । अ॒स्मे इति॑ । तस्मै॑ । इन्द्र॑म् । प्र॒ऽतिर॑म् । ए॒मि॒ । आयुः॑ ॥ऋदूदरेण । सख्या । सचेय । यः । मा । न । रिष्येत् । हरिअश्व । पीतः । अयम् । यः । सोमः । नि । अधायि । अस्मे इति । तस्मै । इन्द्रम् । प्रतिरम् । एमि । आयुः ॥ṛdūdareṇa | sakhyā | saceya | yaḥ | mā | na | riṣyet | hari-aśva | pītaḥ | ayam | yaḥ | somaḥ | ni | adhāyi | asme iti | tasmai | indram | pra-tiram | emi | āyuḥ