Sukta 8.48
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥
इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः । सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥
iṣiréṇa te mánasā sutásya bhakṣī́mahi pitryásyeva rāyáḥ | sóma rājan prá ṇa āyū́ṃṣi tārīr áhānīva sū́ryo vāsarā́ṇi ||
With the eager mind we partake of you, the pressed Soma, as of an ancestral treasure. O King Soma, carry our life-powers forward, as the Sun carries the days onward into their widening course.
इ॒षि॒रेण॑ । ते॒ । मन॑सा । सु॒तस्य॑ । भ॒क्षी॒महि॑ । पित्र्य॑स्यऽइव । रा॒यः । सोम॑ । राज॑न् । प्र । नः॒ । आयूं॑षि । ता॒रीः॒ । अहा॑निऽइव । सूर्यः॑ । वा॒स॒राणि॑ ॥इषिरेण । ते । मनसा । सुतस्य । भक्षीमहि । पित्र्यस्यइव । रायः । सोम । राजन् । प्र । नः । आयूंषि । तारीः । अहानिइव । सूर्यः । वासराणि ॥iṣireṇa | te | manasā | sutasya | bhakṣīmahi | pitryasya-iva | rāyaḥ | soma | rājan | pra | naḥ | āyūṃṣi | tārīḥ | ahāni-iva | sūryaḥ | vāsarāṇi