Sukta 8.48
इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु । ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥
इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गाव॒: सम॑नाह॒ पर्व॑सु । ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥
imé mā pītā́ yaśása uruṣyávo ráthaṃ ná gā́vaḥ sám anāha párvasu | té mā rakṣantu visrásaś carítrād utá mā srā́mād yavayántv índavaḥ ||
These Soma-drops, drunk by me, full of glory and eager to protect, have yoked themselves like steeds to a chariot at the joints. Let them guard me from disintegration in the movement of life, and let the Indus drive away from me weariness and slackness.
इ॒मे । मा॒ । पी॒ताः । य॒शसः॑ । उ॒रु॒ष्यवः॑ । रथ॑म् । न । गावः॑ । सम् । अ॒ना॒ह॒ । पर्व॑ऽसु । ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒स्रसः॑ । च॒रित्रा॑त् । उ॒त । मा॒ । स्रामा॑त् । य॒व॒य॒न्तु॒ । इन्द॑वः ॥इमे । मा । पीताः । यशसः । उरुष्यवः । रथम् । न । गावः । सम् । अनाह । पर्वसु । ते । मा । रक्षन्तु । विस्रसः । चरित्रात् । उत । मा । स्रामात् । यवयन्तु । इन्दवः ॥ime | mā | pītāḥ | yaśasaḥ | uruṣyavaḥ | ratham | na | gāvaḥ | sam | anāha | parva-su | te | mā | rakṣantu | visrasaḥ | caritrāt | uta | mā | srāmāt | yavayantu | indavaḥ