Sukta 8.48
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥
अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् । किं नू॒नम॒स्मान्कृ॑णव॒दरा॑ति॒: किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥
ápāma sómam amṛ́tā abhūmā́ganma jyótir ávidāma devā́n | kíṃ nūnám asmā́n kṛṇavad arā́tiḥ kím u dhūrtír amṛta mártyasya ||
We have drunk the Soma; we have become immortal. We have gone to the Light; we have found the gods. What can hostility do to us now? What can the deceiver’s craft do, O Immortal, against the mortal who has entered this state?
अपा॑म । सोम॑म् । अ॒मृताः॑ । अ॒भू॒म॒ । अग॑न्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् । किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑ति । किम् । ऊँ॒ इति॑ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥अपाम । सोमम् । अमृताः । अभूम । अगन्म । ज्योतिः । अविदाम । देवान् । किम् । नूनम् । अस्मान् । कृणवत् । अराति । किम् । ऊँ इति । धूर्तिः । अमृत । मर्त्यस्य ॥apāma | somam | amṛtāḥ | abhūma | aganma | jyotiḥ | avidāma | devān | kim | nūnam | asmān | kṛṇavat | arāti | kim | oṃ iti | dhūrtiḥ | amṛta | martyasya