Sukta 8.48
अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य । इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥
अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य । इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥
antáś ca prā́gā áditiḥ bhavāsy ava-yātā háraso daívyasya | índav índrasya sákhyaṃ juṣāṇáḥ śrauṣṭī́-iva dhúram ánu rāyé ṛdhyāḥ ||
Enter within and move forward; become Aditi, the boundless, warding off the divine heat’s excess. O Soma-drop, enjoying friendship with Indra, prosper in the riches—like a well-yoked mare following the pole.
अ॒न्तरिति॑ । च॒ । प्र । अगाः॑ । अदि॑तिः । भ॒वा॒सि॒ । अ॒व॒ऽया॒ता । हर॑सः । दैव्य॑स्य । इन्दो॒ इति॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी॑ऽइव । धुर॑म् । अनु॑ । रा॒ये । ऋ॒ध्याः॒ ॥अन्तरिति । च । प्र । अगाः । अदितिः । भवासि । अवयाता । हरसः । दैव्यस्य । इन्दो इति । इन्द्रस्य । सख्यम् । जुषाणः । श्रौष्टीइव । धुरम् । अनु । राये । ऋध्याः ॥antariti | ca | pra | agāḥ | aditiḥ | bhavāsi | ava-yātā | harasaḥ | daivyasya | indo iti | indrasya | sakhyam | juṣāṇaḥ | śrauṣṭī-iva | dhuram | anu | rāye | ṛdhyāḥ