Sukta 8.48
स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य । विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥
स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य । विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥
svādór abhakṣi váyasaḥ su-medhā́ḥ svā́dhyo varivó-vit-tarasya | víśve yáṃ devā́ utá mártyāso mádhu bruvánto abhí saṃ-cáranti ||
Of the sweet one I have tasted—of the life-force; becoming clear-minded and inwardly masterful, I have entered the wider freedom. Around that Honey all the gods and mortals move together, calling it sweetness.
स्वा॒दोः । अ॒भ॒क्षि॒ । वय॑सः । सु॒ऽमे॒धाः । सु॒ऽआ॒ध्यः॑ । व॒रि॒वो॒वित्ऽत॑रस्य । विश्वे॑ । यम् । दे॒वाः । उ॒त । मर्त्या॑सः । मधु॑ । ब्रु॒वन्तः॑ । अ॒भि । स॒म्ऽचर॑न्ति ॥स्वादोः । अभक्षि । वयसः । सुमेधाः । सुआध्यः । वरिवोवित्तरस्य । विश्वे । यम् । देवाः । उत । मर्त्यासः । मधु । ब्रुवन्तः । अभि । सम्चरन्ति ॥svādoḥ | abhakṣi | vayasaḥ | su-medhāḥ | su-ādhyaḥ | varivovit-tarasya | viśve | yam | devāḥ | uta | martyāsaḥ | madhu | bruvantaḥ | abhi | sam-caranti