Sukta 8.48
यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश । तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥
यो न॒ इन्दु॑: पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ । तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥
yó na índuḥ pitaro hṛ́tsu pītó'martyó martyā́m̐ āviveśa | tásmai sómāya havíṣā vidhema mṛḷīké asya su-matáu syāma ||
This Indu, O Fathers, drunk within the hearts—immortal—has entered into mortals. To that Soma with our offering we would give worship; in his grace and in his good mind may we abide.
यः । नः॒ । इन्दुः॑ । पि॒त॒रः॒ । हृ॒त्ऽसु । पी॒तः । अम॑र्त्यः । मर्त्या॑न् । आ॒ऽवि॒वेश॑ । तस्मै॑ । सोमा॑य । ह॒विषा॑ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥यः । नः । इन्दुः । पितरः । हृत्सु । पीतः । अमर्त्यः । मर्त्यान् । आविवेश । तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सुमतौ । स्याम ॥yaḥ | naḥ | induḥ | pitaraḥ | hṛt-su | pītaḥ | amartyaḥ | martyān | āviveśa | tasmai | somāya | haviṣā | vidhema | mṛḷīke | asya | su-matau | syāma