Sukta 8.48
अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः । आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥
अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः । आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑: ॥
ápa tyā́ asthur ánirā amī́vā nír atrasan támiṣīcīr ábhaiṣuḥ | ā́ sómo asmā́n aruhad ví-hāyā áganma yátra prá-tiranta ā́yuḥ ||
Away have those sicknesses stood—powerless; the darkness-moving ones have fled in fear. Soma has mounted us upward into wide spaces; we have gone where life is firmly established and unbroken.
अप॑ । त्याः । अ॒स्थुः॒ । अनि॑राः । अमी॑वाः । निः । अ॒त्र॒स॒न् । तमि॑षीचीः । अभै॑षुः । आ । सोमः॑ । अ॒स्मान् । अ॒रु॒ह॒त् । विऽहा॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः । आ । सोमः । अस्मान् । अरुहत् । विहायाः । अगन्म । यत्र । प्रतिरन्ते । आयुः ॥apa | tyāḥ | asthuḥ | anirāḥ | amīvāḥ | niḥ | atrasan | tamiṣīcīḥ | abhaiṣuḥ | ā | somaḥ | asmān | aruhat | vi-hāyāḥ | aganma | yatra | pra-tirante | āyuḥ