Sukta 8.45
को नु मर्या अमिथितः सखा सखायमब्रवीत् । जहा को अस्मदीषते ॥
को नु म॑र्या॒ अमि॑थित॒: सखा॒ सखा॑यमब्रवीत् । ज॒हा को अ॒स्मदी॑षते ॥
kó nu maryā́ amíthitaḥ sakhā́ sakhā́yam abravīt | jahā́ kó asmád ī́ṣate ||
Who indeed, O young hero, the unbeguiled friend, spoke to his friend: ‘Leave him—who is it that seeks to harm us?’
कः । नु । म॒र्याः॒ । अमि॑थितः । सखा॑ । सखा॑यम् । अ॒ब्र॒वी॒त् । ज॒हा । कः । अ॒स्मत् । ई॒ष॒ते॒ ॥कः । नु । मर्याः । अमिथितः । सखा । सखायम् । अब्रवीत् । जहा । कः । अस्मत् । ईषते ॥kaḥ | nu | maryāḥ | amithitaḥ | sakhā | sakhāyam | abravīt | jahā | kaḥ | asmat | īṣate