Sukta 8.45
बिभया हि त्वावत उग्रादभिप्रभङ्गिणः । दस्मादहमृतीषहः ॥
बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिण॑: । द॒स्माद॒हमृ॑ती॒षह॑: ॥
bibhayā́ hí tvāvata ugrā́d abhi-prabhaṅgíṇaḥ | dasmā́d ahám ṛtī́-ṣahaḥ ||
For I fear the violent breakers when one is without you; but with you—O wondrous one—I become a bearer who can endure the assaults against the right.
बि॒भय॑ । हि । त्वाऽव॑तः । उ॒ग्रात् । अ॒भि॒ऽप्र॒भ॒ङ्गिनः॑ । द॒स्मात् । अ॒हम् । ऋ॒ति॒ऽसहः॑ ॥बिभय । हि । त्वावतः । उग्रात् । अभिप्रभङ्गिनः । दस्मात् । अहम् । ऋतिसहः ॥bibhaya | hi | tvāvataḥ | ugrāt | abhi-prabhaṅgiṇaḥ | dasmāt | aham | ṛti-sahaḥ