Sukta 8.45
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । माकीं ब्रह्मद्विषो वनः ॥
मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् । माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥
mā́ tvā mūrā́ aviṣyávo mópa-hasvāna ā́ dabhan | mākī́m brahma-dvíṣo vanaḥ ||
Let not the foolish, the ill-willed, nor the mockers deceive thee; let not at any time the haters of the Word seize thy power.
मा । त्वा॒ । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उ॒प॒ऽहस्वा॑नः । आ । द॒भ॒न् । माकी॑म् । ब्र॒ह्म॒ऽद्विषः॑ । व॒नः॒ ॥मा । त्वा । मूराः । अविष्यवः । मा । उपहस्वानः । आ । दभन् । माकीम् । ब्रह्मद्विषः । वनः ॥mā | tvā | mūrāḥ | aviṣyavaḥ | mā | upa-hasvānaḥ | ā | dabhan | mākīm | brahma-dviṣaḥ | vanaḥ