Sukta 8.45
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । पुष्टावन्तो यथा पशुम् ॥
इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिन॑: । पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥
imá u tvā ví cakṣate sákhāya indra somínaḥ | puṣṭā́vanto yáthā paśúm ||
These companions who hold the Soma look upon you with discernment, O Indra, fostering you as one fosters a growing power in the being.
इ॒मे । ऊँ॒ इति॑ । त्वा॒ । वि । च॒क्ष॒ते॒ । सखा॑यः । इ॒न्द्र॒ । सो॒मिनः॑ । पु॒ष्टऽव॑न्तः । यथा॑ । प॒शुम् ॥इमे । ऊँ इति । त्वा । वि । चक्षते । सखायः । इन्द्र । सोमिनः । पुष्टवन्तः । यथा । पशुम् ॥ime | oṃ iti | tvā | vi | cakṣate | sakhāyaḥ | indra | sominaḥ | puṣṭa-vantaḥ | yathā | paśum