Sukta 8.44
प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् । अध्वराणामभिश्रियम् ॥
प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् । अ॒ध्व॒राणा॑मभि॒श्रिय॑म् ॥
pratnáṁ hótāram ī́ḍyaṁ júṣṭam agníṁ kavíkratum | adhvarā́ṇām abhiśríyam ||
Agni—the ancient invoking Priest, worthy of our seeking, beloved and consenting, the seer-will in action—he is the manifest glory that stands over our sacrifices.
प्र॒त्नम् । होता॑रम् । ईड्य॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒विऽक्र॑तुम् । अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रिय॑म् ॥प्रत्नम् । होतारम् । ईड्यम् । जुष्टम् । अग्निम् । कविक्रतुम् । अध्वराणाम् । अभिश्रियम् ॥pratnam | hotāram | īḍyam | juṣṭam | agnim | kavi-kratum | adhvarāṇām | abhi-śriyam