Sukta 8.44
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् । अग्निमीळे स उ श्रवत् ॥
म॒न्द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुम् । अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥
mandráṁ hótāram ṛtvíjaṁ citrábhānuṁ vibhā́vasum | agním īḷe sá u śravat ||
I aspire to Agni—the gladdening Priest, the season-knower, the many-rayed, the widely-luminous. May he indeed hear and respond to our call.
म॒न्द्रम् । होता॑रम् । ऋ॒त्विज॑म् । चि॒त्रऽभा॑नुम् । वि॒भाऽव॑सुम् । अ॒ग्निम् । ई॒ळे॒ । सः । ऊँ॒ इति॑ । श्र॒व॒त् ॥मन्द्रम् । होतारम् । ऋत्विजम् । चित्रभानुम् । विभावसुम् । अग्निम् । ईळे । सः । ऊँ इति । श्रवत् ॥mandram | hotāram | ṛtvijam | citra-bhānum | vibhāvasum | agnim | īḷe | saḥ | oṃ iti | śravat