Sukta 8.44
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ईरते ॥
उत्ते॑ बृ॒हन्तो॑ अ॒र्चय॑: समिधा॒नस्य॑ दीदिवः । अग्ने॑ शु॒क्रास॑ ईरते ॥
út te bṛhánto arcáyaḥ samidhānásya dīdivaḥ | agne śukrā́sa īrate ||
Upward rise your vast flaming rays, O Agni, when you are kindled and shining; your bright energies surge and move into action.
उत् । ते॒ । बृ॒हन्तः॑ । अ॒र्चयः॑ । स॒म्ऽइ॒धा॒नस्य॑ । दी॒दि॒ऽवः॒ । अग्ने॑ । शु॒क्रासः॑ । ई॒र॒ते॒ ॥उत् । ते । बृहन्तः । अर्चयः । सम्इधानस्य । दीदिवः । अग्ने । शुक्रासः । ईरते ॥ut | te | bṛhantaḥ | arcayaḥ | sam-idhānasya | dīdi-vaḥ | agne | śukrāsaḥ | īrate