Sukta 8.44
अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । गिरो वाश्रास ईरते ॥
अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिन्ध॑वः । गिरो॑ वा॒श्रास॑ ईरते ॥
ágne dhṛtá-vratāya te samudrā́ya-iva síndhavaḥ | gíro vāśrā́sa īrate ||
O Agni steadfast in the held law, to you—like rivers running to the ocean—our words, crying out, surge and move.
अग्ने॑ । धृ॒तऽव्र॑ताय । ते॒ । स॒मु॒द्राय॑ऽइव । सिन्ध॑वः । गिरः॑ । वा॒श्रासः॑ । ई॒र॒ते॒ ॥अग्ने । धृतव्रताय । ते । समुद्रायइव । सिन्धवः । गिरः । वाश्रासः । ईरते ॥agne | dhṛta-vratāya | te | samudrāya-iva | sindhavaḥ | giraḥ | vāśrāsaḥ | īrate