Sukta 8.44
अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । अग्नेः सख्यं वृणीमहे ॥
अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑त॒: सदा॑ । अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥
ádabdhasya svadhā́vato dūtásya rébhataḥ sádā | agnéḥ sakhyáṃ vṛṇīmahe ||
We choose the friendship of Agni always—of the unbetrayable messenger, rich in his own law of power, the inspired one who carries our offering to the heights.
अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ । अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥अदब्धस्य । स्वधावतः । दूतस्य । रेभतः । सदा । अग्नेः । सख्यम् । वृणीमहे ॥adabdhasya | svadhāvataḥ | dūtasya | rebhataḥ | sadā | agneḥ | sakhyam | vṛṇīmahe