Sukta 8.44
त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः । त्वां वर्धन्तु नो गिरः ॥
त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः । त्वां व॑र्धन्तु नो॒ गिर॑: ॥
tvā́m agne manīṣíṇaḥ tvā́ṃ hinvanti cítti-bhiḥ | tvā́ṃ vardhantu no gíraḥ ||
You, O Agni, the thinkers of vision impel with their awakenings; may our words, too, increase you—may speech build the fire of consciousness.
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः । त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥त्वाम् । अग्ने । मनीषिणः । त्वाम् । हिन्वन्ति । चित्तिभिः । त्वाम् । वर्धन्तु । नः । गिरः ॥tvām | agne | manīṣiṇaḥ | tvām | hinvanti | citti-bhiḥ | tvām | vardhantu | naḥ | g iraḥ