Sukta 8.44
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः । शुची रोचत आहुतः ॥
अ॒ग्निः शुचि॑व्रततम॒: शुचि॒र्विप्र॒: शुचि॑: क॒विः । शुची॑ रोचत॒ आहु॑तः ॥
agniḥ śúci-vrata-tamaḥ śucír vipráḥ śúciḥ kavíḥ | śucī́ rocate ā́-hutaḥ ||
Agni, most perfect in the law of purity, pure in vision, pure as the illumined thinker, pure as the seer-poet—when invoked and offered to, he shines forth in the consciousness.
अ॒ग्निः । शुचि॑व्रतऽतमः । शुचिः॑ । विप्रः॑ । शुचिः॑ । क॒विः । शुचिः॑ । रो॒च॒ते॒ । आऽहु॑तः ॥अग्निः । शुचिव्रततमः । शुचिः । विप्रः । शुचिः । कविः । शुचिः । रोचते । आहुतः ॥agniḥ | śucivrata-tamaḥ | śuciḥ | vipraḥ | śuciḥ | kaviḥ | śuciḥ | rocate | āhutaḥ