Sukta 8.44
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । स्तोता स्यां तव शर्मणि ॥
ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः । स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥
ī́śiṣe vā́ryasya hí dātrásyāgne svàr-patiḥ | stótā syāṃ táva śármaṇi ||
You rule over the choice boons, for you are the giver, O Agni, lord of the luminous world. May I be your singer, dwelling in your sheltering peace.
ईशि॑षे । वार्य॑स्य । हि । दा॒त्रस्य॑ । अ॒ग्ने॒ । स्वः॑ऽपतिः । स्तो॒ता । स्या॒म् । तव॑ । शर्म॑णि ॥ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःपतिः । स्तोता । स्याम् । तव । शर्मणि ॥īśiṣe | vāryasya | hi | dātrasya | agne | svaḥ-patiḥ | stotā | syām | tava | śamarṇi