Sukta 8.44
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतींष्यर्चयः ॥
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीं॑ष्य॒र्चय॑: ॥
úd agne śúcayas táva śukrā́ bhrā́janta īrate | táva jyótīṃṣy arcáyaḥ ||
Upward, O Agni, your pure and bright flames surge and blaze; they set in motion your lights—your rays that bring the offering of illumination.
उत् । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ । तव॑ । ज्योतीं॑षि । अ॒र्चयः॑ ॥उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते । तव । ज्योतींषि । अर्चयः ॥ut | agne | śucayaḥ | tava | śukrāḥ | bhrājantaḥ | īrate | tava | jyotīṃṣi | arcayaḥ