Sukta 8.44
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पां रेतां॑सि जिन्वति ॥
agnír mūrdhā́ diváḥ kakút pátiḥ pṛthivyā́ ayám | apā́ṃ retā́ṃsi jinvati ||
Agni is the head of heaven, the summit and lord of the earth; he stirs the seeds of the waters—he quickens the hidden potential into manifestation.
अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् । अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् । अपाम् । रेतांसि । जिन्वति ॥agniḥ | mūrdhā | divaḥ | kakut | patiḥ | pṛthivyāḥ | ayam | apām | retāṃsi | jinvati