Sukta 8.44
अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् । कविर्विप्रेण वावृधे ॥
अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् । क॒विर्विप्रे॑ण वावृधे ॥
agníḥ pratnéna mánmanā śúmbhānas tanvàṃ svā́m | kavír vípreṇa vāvṛdhe ||
Agni, with the ancient inspired intention, adorning his own being, grows as the seer—he increases through the illumined mind of the sage.
अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् । क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥अग्निः । प्रत्नेन । मन्मना । शुम्भानः । तन्वम् । स्वाम् । कविः । विप्रेण । ववृधे ॥agniḥ | pratnena | manmanā | śumbhānaḥ | tanvam | svām | kaviḥ | vipreṇa | vavṛdhe