Sukta 8.44
विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् । यज्ञानां केतुमीमहे ॥
विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् । य॒ज्ञानां॑ के॒तुमी॑महे ॥
vípraṁ hótāram adrúhaṁ dhūmakétuṁ vibhā́vasum | yajñā́nāṁ kétum īmahe ||
We seek Agni—the inspired invoking Priest, the undeceiving, the smoke-bannered, the widely luminous—him who is the sign and guiding beacon of our sacrifices.
विप्र॑म् । होता॑रम् । अ॒द्रुह॑म् । धू॒मऽके॑तुम् । वि॒भाऽव॑सुम् । य॒ज्ञाना॑म् । के॒तुम् । ई॒म॒हे॒ ॥विप्रम् । होतारम् । अद्रुहम् । धूमकेतुम् । विभावसुम् । यज्ञानाम् । केतुम् । ईमहे ॥vipram | hotāram | adruham | dhūma-ketum | vibhāvasum | yajñānām | ketum | īmahe